पूर्वं रेफवकारान्तस्य घातोर्दीर्घत्वविधानादरेफवकारान्तार्थमिदम्()। उपधायामिति सुब्व्यत्ययेन षष्ठीद्विवचनस्य स्थाने सप्तम्येकवचनम्()। "उपधाभूतौ" इति। उपधात्वं प्राप्तावित्यर्थः।
अलोऽन्त्यात्? पूर्वौ इति यावत्()। "हल्परो" इति।
हल्? पर आभ्यामिति बहुव्रीहिः।
स पुनर्हल्? धात्ववयव एव वेदितव्यः। यत्र हि प्रत्ययावयवो रेफवकाराभ्यां हल्परस्तत्र पूर्वेणैव सिद्धः। "हूर्छिता" इति। "हुच्र्छ कौटिल्ये" (धा।पा।२११)। "मू()च्छता" इति। "मुच्र्छा मोहसमुच्छ्राययोः" (धा।पा।२१२)। ननु च "अचो रहाभ्यां द्वे" (८।४।
४६) इति द्विर्वचने कृते रेफोऽत्रोपधा न भवति? नैतदस्ति; दीर्घत्वे कत्र्तव्ये द्विर्वचनस्यासिद्धत्वाच्छकारोऽत्रैक एव हलिति भवत्येवोपधात्वं रेफस्य।
"चिरिणोति, जिरिणोति" इति। "रि क्षि चिरि जिरि दाश दृ हिंसायाम्()" (धा।पा।१२७५-१२८०) स्वादित्वात्श्नुः"।
इह "री गतौ" (धा।पा।१५००), "धी गतिप्रजनादिषु" (धा।पा।१०४८)-एताभ्यां लिट्(), अतुसि, उसि च, "एरनेकाचः"
६।४।८२ इति यणादेशः; तस्य स्थानिवद्भावाद्()द्विर्वचने कृते "रिर्यतुः, रिर्युः; विव्यतुः विव्यु" इति स्थितेऽभ्यासेकारस्य दीर्घस्य प्राप्नोति, हल्परयो रेफवकारयोरुपधाभूतत्वात्()।
एतत्कस्मान्न भवति? इत्याह--"रिर्यतुः, रिर्यः" इत्यादि। स्थानिवद्भावः "अचः परस्मिन्()"
१।१।५६ इत्यादिना। ननु च "न पदान्त"
१।१।५७ इत्यादिना दीर्घविधौ प्रतिषिध्यते स्थानिवद्भावः,
तत्? कुतस्तस्येह सम्भवः? नैतदस्ति; परिगणनं हि तत्र क्रियते--"स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्()" (का।वृ।१।१।५८) इतिः "असिद्धत्वाद्वा" इत्यादि। अत्र बहिरङ्गत्वं यणादेशस्य; अङ्गाधिकारे विधीयमानस्य प्रत्ययाश्रितत्वात्()। दीर्घत्वस्य त्वन्तरङ्गत्वम्(); प्रकृत्याश्रयत्वात्()। "असिद्धञ्च बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इति दीर्घत्वे कत्र्तव्ये यणादेश स्यासिद्धत्वाद्रेफवकारौ हल्परौ न भवतिः, तत्कुतो दीर्घत्वस्य प्राप्तिः।
इह तर्हि चतुर्यितेति दीर्घत्वं कस्मान्न भवति, अत्र हि "चतुर्य" इत्यस्य क्यजन्तस्य धातोस्तृचि परतः "अतो लोपः"
६।४।४८ इत्यकारलोपे कृत उपधाभूतो रेफो हल्परो भवतीत्यस्ति दीर्घत्वस्य प्राप्तिः, इत्याह--"चतुर्यितेत्यत्रापि" इत्यादि। बहिरङ्गत्वमतो लोपस्यार्थधातुकाश्रय स्यात्()। दीर्घस्यान्तरङ्गत्वं पूर्ववत्()।
तर्हि प्रतिदीव्नेत्यत्रापि दीर्घत्वं न स्यात्()। यथैव हि चतुर्यितेत्यत्र धातोरुपधा रेफो न भवति, तथा प्रतिदीव्नेत्यत्रापि वकारः।
तथा हि--दीव्येत्येतावान्? धातुः, नकारस्तु प्रत्यय सम्बन्धी; न च दिवेर्धातोर्वकर उपधाभूतः,
किं तर्हि? अन्तभूतः? इत्यत आह--"प्रतिदीव्नेत्यत्र" इत्यादि।
प्रतिपूर्वाद्दिवः "कनिन्? युवुषितक्षि" (द।उ।६।५१) इत्यादिना कविन्(), "अल्लोपोऽनः"
६।४।१३४ इत्यकारलोपः।
ननु च "अचः परस्मिन्? पूर्वविधौ"
१।१।५६ इत्यल्लोपस्य स्थाविवद्भावाद्धलि परतो वकारान्तोऽत्र धातुर्न भवति। तत्कथं "हलि च" (८।२।
७७) इति दीर्घत्वम्()? इत्याह--"दीर्घविधौ" इत्यादि। स्थानिवद्भावप्रतिषेधस्तु "न पदान्त"
१।१।५७ इत्यादिना।
नन्वेवमपि बहिरङ्गलक्षणसिद्धत्वादल्लोपस्य नैवात्र हलि परतो वकारान्तो धातुरुपपद्यते? इत्याह--"असिद्धं बहिरङ्गम्()" इत्यादि। अनाश्रयणस्य तु हेतुरनित्यत्वमस्याः परिभाषायाः। अनित्यत्वं तु "नलोपः सुप्स्वर"
८।२।२ इत्यादौ सूत्रे तुग्विधिग्रहणाज्ज्ञापितम्()।
अथ जिव्रिः, किर्योरित्यादौ "हलि च"
८।२।७७ इति दीर्घत्वं कस्मान्न भवति जिव्रिशब्दोऽप्ययमे वं व्युत्पाद्यते,
"जीर्यतेः क्रिन्? रश्च वः" (द।उ।१-८०) इति।
"जृ()ष्? ["जृ()ष"-धा।पा।
] झृ()ष्? ["झृ()ष"--धा।पा।] वयोहानौ" (धा।पा।११३०,
११३१) इत्यस्मात्? क्रिन्प्रत्ययः; "ऋत इद्धातोः"
७।१।१०० इतीत्त्वम्(), रपरत्वम्(), रेफस्य वकार आदेशः--इत्येवं व्युत्पत्तौ जिव्रिरित्येतस्य वकारान्तस्य धातो रेफे हलि परतः "हलि च"
८।२।७७ इत्यस्ति दीर्घत्वस्य प्राप्तिः। किरिः गिरिरित्येवमादीनामपि शब्दानामेवं व्युत्पत्तिः क्रियते। "अच इः" (द।उ। १-६७) इत्यत इप्रत्ययेऽनुवत्र्तमाने "भुजेः किच्च" (द।उ। १-७१) इति च "कृगृ()शृ()पृ()कुटिभिदिच्छिदिभ्यश्च" (द।उ। १-७२) इतिकिरतिप्रभृतिभ्यो धातुभ्य इप्रत्ययं विधाय व्युत्पाद्यन्त एते। एवं हि व्युत्पत्तावोसि यणादेशे कृते यकारे हलि परतो रेफान्तानां किरिप्रभृतीनां "हलि च" (८।२।
७७) इति दीर्घत्वं प्राप्नोति? इत्यत आह--"उणादयोऽव्युत्पन्नानि" इत्यादि। ननु च किर्योः, गिर्योरित्यत्र व्युत्पत्तिपक्षेऽपि दीर्घत्वं न प्रसजति, न ह्रत्र हलि परतः किरतिगिरती रेफान्तौ,
दीर्घत्वे कत्र्तव्ये यणादेशस्य स्थानिवद्भावात्? स्वराविलोपेषु हि लोपाजादेशो न स्थानिवत्(),
अन्यस्तु स्थानिवदेव? सत्यमेतत्(); अभ्युपगम्येवं परिहार उक्तः। एवं मन्यते--भवत्यविशेषेण स्थानिवद्भावप्रतिषेधः, तथापि नैवात्र दीर्घत्वं प्रसज्येत; अव्युत्पन्नत्वादुणादीनामिति। यद्युणादयोऽव्युत्पन्नानि प्रातिपदिकानीति, न हि तत्रैव सूत्रे व्युत्पत्तिपक्षश्चाश्रयितुं युक्तः, योऽपि "आतो मनिन्क्वनिब्वनियश्च"
३।२।७४ इति "अन्येभ्योऽपि दृश्यन्ते" (३।२ ७५) इति क्वनिप्प्रत्ययान्त प्रतिदिवञ्शब्दं व्युत्पादयेत तस्यापि नैव दीर्घत्वं सिध्यति, "लोपोव्योर्वलि" (६।१।
६६) इति वकारलोपे कृते धातोरवकारान्तत्वादिति? कत्र्तव्योऽत्र यत्नः। एव क्रियते-"हलि च"
८।२।७७ इत्यत्र "व्याक्तः पदार्थः" इत्येतद्दर्शनमाश्रीयते। अ()स्मश्च दर्शने प्रतिलक्ष्यं लक्षणभेदो भवतीति यावन्ति लक्ष्याणि तावन्त्येव लक्षणाम्युपदिशन्ति,
तत्र भिन्नेषु लक्ष्यानुरोधात्? क्वचित्? प्रतिदीव्नेत्यादौ व्युत्पत्तिपक्ष आश्रीयते;
क्वचित्? पुनर्जिव्रिः, किर्योः, गिर्योरित्यादावव्युत्पत्तिपक्ष इति।
चकारो हलोत्यनुकर्षणार्थः॥
उपधायां च। सिपि धातोरिति, "र्वोरुपाधाया" इत्यतो र्वोरिक इति, "हलि चे"त्यतो हलीति चानुवर्तते। "उपधयो"रित्यर्थे उपधायामित्यार्षम्। तदाह--धातोरित्यादि। ऊर्दत इति। अत्र धातोः रेफवान्तत्वाऽभावात् "र्वोरुपधायाः" इत्यस्य "हलि चे"त्यस्य चाऽप्राप्तौ "उपाधायां चे"त्यारम्भः। धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात्। ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात्। रेफवकारयोः किम्?। पुष्प्यति। हल्परयोः किम्?। चिरिणोति। इकः किं?। नर्दति। ऊर्दांचक्र इति। इजादित्वादाम्। "कृञ्चानुप्रयुज्यते" इत्यनुप्रयोगः। कुर्देति। गुदेत्यपि पृथग्धातुः। "क्रीडायामेवे"त्यर्थनिर्देशः। एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति। कूर्दत इति। "उपधायां चे"ति दीर्घः। चुकूर्द इति। "कुहोश्चु"रिति चुत्वम्। खूर्दत इति। "उपधायां चे"ति दीर्घः। एवं गूर्दते इति। गोदत इति। शपि लघूपधगुणः। जुगुद इति। "असंयोगा"दिति कित्त्वान्न गुणः। षूदेति। क्षरणं--प्ररुआवणम्। सूदत इति। प्ररुआवतीत्यर्थः। "धात्वादे"रिति षस्य सः। अलघूपधत्वान् गुणः। सुषूद इति। "धात्वादे"रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम्। यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात्। षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः। ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति --सेगिति श्लोकेन। "दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु"रित्यन्वयः। दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते -- दन्त्याजन्तषादयः। दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः। "सादय" इति पाठेऽप्येवमेव व्याख्येयम्। "अज्दन्त्यपराः षादयः षोपदेशाः" इति भाष्यम्। षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः। "ष्ठा गतिनिवृत्ता"वित्यादयस्तु दन्त्यपरकषोपदेशाः। दन्त्याजन्तेति किम्?। स्कुदि आप्रवणे। चुस्कुन्दे। अत्र सकारो न दन्त्यपरको, नाप्यच्परकः। एकाचः किम्?। सोसूत्र्यते। "सूत्र वेष्टने", चुरादिरजन्तोऽनेकाच्। यद्यप्येकाच इति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम्। एवं च "साध-संसिद्धौ" इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव। ननु "सेकृ गतौ", "सृप्लृ गतौ" , "सृ गतौ", "सृज विसर्गे" एते चत्वारोऽच्परकसादयः। स्तृञ् आच्छादने" ऋदन्तः श्नुविकरणः,। "स्तृ()ञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः"। एते त्रयो दन्त्यपरकसादयः। एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह--- सेक् सृप् सृ स्तृ सृज् स्तृ()म्त्यान्ये इति। स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे "स्त्यार्यन्य" इत्येकस्याक्षरस्याधिक्यापत्तेः। नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने--इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति--ष्वक् स्विद् स्वद् स्वप् स्मिङ इति। "अपी"ति शेष-। ननु "स्वृ शब्दोपतापयो"रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह-- दन्त्यः केवलदन्त्य इति। कुत इत्यत आह-- ष्वष्कादीनांमिति। अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः। यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः। हादेति। रेफवानयम्। अव्यक्तशब्दः--- अमनुष्यवाक।जहाद इति। अभ्यासस्य ह्यस्वः। चुत्वम्। ह्लादीति। लकारवानयम्। "स्वीदितो निष्ठाया"मितीण्निषेधार्थमीत्वम्। स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः। असिस्वदत्। पदेति। गुदरव इत्यर्थः। यतीति। ईदित्त्वमिण्निषेधार्थम्। येते इति। "अत एकहल्मध्ये" इत्येत्वाभ्यासलोपौ। युतृ जुतृ इति। ऋदित्त्वम् "नाग्लोपिशास्वृदिता"मित्याद्यर्थम्। योतत इति। शपि लघूपधगुणः। युयुत इति। "असंयोगा"दिति कित्त्वान्न गुणः। विथृ वेथृ इति। द्वितीयान्तविमौ। ननु "विथृ" इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह-- विविते विवेथे इति। वेथृधातोर्विवेथे इति रूपम्। विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः। श्रथीति। द्वितीयान्तः। शैथिल्यं-- रुआंसनम्। श्रन्थते इति। इदित्त्वान्नुम्। ग्रथीति। द्वितीयान्तः। काटिल्यं--वक्रीभवनम्। ग्रन्थत इति। इदित्त्वान्नुम्। कत्थेति। अविद्यमानगुणज्ञापनं श्लाघा। अथाष्टातिं()रशदिति। अष्टौ च तिं()रशदिति द्वन्द्वः। अष्टाधिका तिं()रशदिति वा। "द्व्यष्टनः सङ्खाया"मित्यात्वम्। "अष्ट तिं()रश"दिति पाठे तु अष्टेति पृथक्पदम्। परस्मैपदिन इति। अनुदात्तस्वरितङ्()ञित्त्वाऽभावात् "शेषात्कर्तरी"ति परस्मैपदिन एवेति भाव-। अतेति। सातत्यगमनं-- संततगमनम्। लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह-- अत आदेरिति। "इति दीर्घ"इति शेषः। तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः। तदाह-आतेति। अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न। लुङिति। अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे "अस्तिसिचोऽपृक्त" इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः।